Showing posts with label Shanti. Show all posts
Showing posts with label Shanti. Show all posts

Saturday, January 4, 2025

VEDIC PRAYER FOR UNIVERSAL WELFARE

VEDIC PRAYER FOR UNIVERSAL WELFARE
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वास॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु।
ओं शान्ति॒श्शान्ति॒श्शान्तिः॑॥

Friday, January 5, 2024

VEDIC PRAYERS FOR UNIVERSAL PEACE AND WELL-BEING

शन्नो॒ वातः॑ पवतां मात॒रिश्वा॒ शन्न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं भ॑वन्तु न॒श्श रात्रिः॒ प्रति॑धीयताम् । शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॒श्शन्त॑मा भव सुमृडी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ । इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वास्तु॒मन्तो॑ भूयास्म॒ मा वास्तोश्छिथ्स्मह्यवा॒स्तुः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः । प्र॒ति॒ष्ठासि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठायाश्छिथ्स्मह्यप्रति॒ष्ठः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः । आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्व हि वि॒श्वभे॑षजो दे॒वानान्दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॑रा प॑रा॒वतः॑ । दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑तते गृ॒हे॑ऽमृत॑स्य नि॒धिर््हि॒तः । ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् । शं॒भूर्म॑यो॒भूर्नो॑ हृ॒दे प्र ण॒ आयू॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा॒ प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं प्रप॒द्येऽनार्तां दे॒वतां॒ प्रप॒द्येऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं ब्रह्म॒ प्रप॑द्य॒ ओं प्रप॑द्ये । अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वातः॑ स्व॒स्त्या स्व॑स्ति॒मान्तया स्व॒स्त्या स्व॑स्ति॒मान॑सानि । प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु । द्यु॒भिर॒क्तुभिः॒ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः । कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा । कया॒ शचि॑ष्ठया वृ॒ता । कस्त्वा॑ स॒त्यो मदा॑नां॒ महि॑ष्ठो मथ्स॒दन्ध॑सः । दृ॒ढाचि॑दा॒रुजे॒ वसु॑ । अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभिः॑ । वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमूर्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् । शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये । शय्योँर॒भिस्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर््षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । पृ॒थि॒वी शा॒न्ता साग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुच॑ शमयतु । अ॒न्तरि॑क्ष शा॒न्तन्तद्वा॒युना॑ शा॒न्तन्तन्मे॑ शा॒न्त शुच॑ शमयतु । द्यौश्शा॒न्ता सादि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुच॑ शमयतु । पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒॒ शान्ति॒र्द्यौश्शान्ति॒र्दिश॒श्शान्ति॑रवान्तरदि॒शाश्शान्ति॑र॒ग्निश्शान्ति॑र्वा॒युश्शान्ति॑- रादि॒त्यश्शान्ति॑श्च॒न्द्रमा॒श्शान्ति॒र्नक्ष॑त्राणि॒ शान्ति॒राप॒श्शान्ति॒रोष॑धय॒श्शान्ति॒र्वन॒स्पत॑य॒श्शान्ति॒र्गौश्शान्ति॑र॒जा शान्ति॒रश्व॒श्शान्ति॒ पुरु॑ष॒श्शान्ति॒र्ब्रह्म॒ शान्ति॑र्ब्राह्म॒णश्शान्ति॒श्शान्ति॑रे॒व शान्ति॒श्शान्ति॑र्मे अस्तु॒ शान्तिः॑ । तया॒ह शा॒न्त्या स॑र्वशा॒न्त्या मह्य॑न्द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्तिं॑ करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑ । एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यन्धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॒॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यन्धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः । उदायु॑षा स्वा॒युषोदोष॑धीना॒॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ताच्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒त शृ॒णवा॑म श॒रद॑श्श॒तं प्रब्र॑वाम श॒रद॑श्श॒तमजी॑ताः स्याम श॒रद॑श्श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे । य उद॑गान्मह॒तोऽर्णवाद्वि॒भ्राज॑मानः सरि॒रस्य॒ मध्या॒त्स मा वृष॒भो लो॑हिता॒क्षः सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु । ब्रह्म॑ण॒श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वी सदे॑वा॒य्यँद॒हव्वेँद॒ तद॒हन्धा॑रयाणि॒ मा मद्वेदोऽधि॒विस्र॑सत् । मे॒धा॒म॒नी॒षे मावि॑शता स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Thursday, June 2, 2022

WHAT ARE THE FIVE TYPES OF SAKTI ?

The following are the five types of śakti :-
(1) parāśakti --- śāntyātītaśakti
(2) ādiśakti --- śāntiśakti
(3) icchāśakti --- vidyāśakti
(4) jñanaśakti --- pratiṣṭhaśakti
(5) kriyāśakti --- nivṛittiśakti
जय जय श्रीराधे

Thursday, December 31, 2020

VEDIC PRAYER FOR UNIVERSAL WELL-BEING

VEDIC  PRAYER FOR UNIVERSAL WELL-BEING

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।

भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।

स्थि॒रैरङ्गैस्तुष्टु॒वास॑स्त॒नूभिः॑ ।

व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।

स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ओं शान्ति: शान्ति: शान्ति: ॥

O Gods! Let us hear auspicious words through our ears.

Let us see auspicious things through our eyes in the sacrifices.
Let us enjoy a life that is beneficial to Gods.
Let us praise the Gods with bodies having strong limbs.
Let Indra of ancient fame be propitious to us.
May the all-knowing Pusha be auspicious to us.
Let Garuda, who destroys evils, be favorably disposed towards us.

Let Brhaspati grant us welfare.

This Shanti (Peace) invocation appears in the Mundaka, Mandukya and Prasna Upanishads. This Peace Chant ends with the prayer for protection from the Tapatrayas (Threefold miseries) in terms of  Adhyatmika (Body, Mind), Adhi Bhautika (Animals, other living Beings) and Adhi Daivika (Natural calamities like Earthquake, Flood, Tsunami, etc.).

जय जय श्रीराधे

Tuesday, March 24, 2020

VEDIC CHANTS FROM KRISHNA YAJUR VEDA FOR UNIVERSAL WELL-BEING

VEDIC CHANTS FROM KRISHNA YAJUR VEDA FOR UNIVERSAL WELL-BEING :-


SHANTI PANCHAKAM KRISHNA YAJUR VEDA


SHANTI PATHA TAITTIRIYA ARANYAKA  


जय जय श्रीराधे 

Tuesday, December 31, 2019

SANTI PATHA (शान्तिपाठ​:) OF AITAREYA UPANISHAD (ऐतरेयोपनिषद्)

ऐतरेयोपनिषद् शान्तिपाठ​:
वाङ्मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि ।
वेदस्य म आणी स्थः ।
श्रुतं मे मा प्रहासीः ॥
अनेनाधीतेनाऽऽहोरात्रान् सन्दधामि ।
ऋतं वदिष्यामि।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
जय जय श्रीराधे