अ॑भीव॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ ऽभि रा॒ष्ट्राय॑ वर्धय ॥
अ॑भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
अ॑भीव॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः।
रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥
उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑।
यथा॒हं श॑त्रु॒हो ऽसा॑न्यसप॒त्नः स॑पत्न॒हा ॥
स॑पत्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः।
यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
It is requested that a group of traditional Vedic Scholars
who have done the adhyayana of Atharva Veda could chant
this Atharva Veda Mantra for 1008 times for the continued
protection of Bharata Desa.
जय जय श्रीराधे
Showing posts with label Rashtra. Show all posts
Showing posts with label Rashtra. Show all posts
Tuesday, May 6, 2025
Wednesday, April 23, 2025
RASHTRA SUKTAM (राष्ट्रसूक्तम् )
राष्ट्रसूक्तम्
ॐ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः॒ शूर॑ इष॒व्यो॒ऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्र्॑ ध्॒एनुर्वोढा॑न॒ड्वाना॒शुः सप्त॒इः पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य॒ यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ।

Subscribe to:
Posts (Atom)