Showing posts with label Prahlada. Show all posts
Showing posts with label Prahlada. Show all posts

Saturday, May 2, 2026

DEVA RISHI SRI NARADA PRARTHANA

देवर्षि श्रीनारदप्रार्थना
नारयणकृपापात्रं ज्ञानवैराग्यसंयुतम्।
प्रेमभक्तिप्रवीणं तं देवर्षिं नारदं भजे॥
nārāyaṇa-kṛpā-pātraṁ jñāna-vairāgya-saṁyutam ।
prema-bhakti-pravīṇaṁ taṁ devarṣiṁ nāradaṁ bhaje ॥
I worship Nārada, the divine sage,
who is the recipient of Nārāyaṇa’s grace,
endowed with knowledge and detachment,
and skilled in loving devotion.
जय जय श्रीराधे

Monday, June 19, 2023

PRAHLADA BHAKTI VIJAYAM -- THEMATIC CONCERT PRESENTED BY SMT. VIDYA KALAYANARAMAN -- ARTS CULTURE INDIA FOUNDATION – RAGATARANGINI

Ragatarangini - Arts Culture India Foundation
Thematic Concert on Prahlada Bhakti Vijayam composed by Sri. Tyagaraja Swamigal
Vocal - Smt. Vidya Kalyanaraman
Violin - Sri. R. Raghul
Mridangam – Sri. Kumbakonam Swaminathan
https://www.youtube.com/watch?v=uiDrEslwGew
जय जय श्रीराधे

Monday, March 27, 2023

PATALADRI SRI NARASIMHA STOTRAM

भक्ताभीष्टप्रदात्रे च प्रह्लादवरदाय च ।
पाटलाद्रिनृसिंहाय भद्राय च नमो नमः ॥
bhaktābhĪṣṭapradātre ca prahlādavaradāya ca ।
pāṭalādrinṛsimhāya bhadrāya ca namo namaḥ ॥
जय जय श्रीराधे

Saturday, May 14, 2022

SRI LAKSHMI NARASIMHA PRARTHANA (श्रीलक्ष्मीनृसिंहप्रार्थना)

श्रीलक्ष्मीनृसिंहप्रार्थना
भक्ताभयप्रदातारं सर्वमङ्गलविग्रहम् ।
प्रह्लादवरदं देवं नृसिंहं तं नमाम्यहम् ॥
जय जय श्रीराधे

Wednesday, August 18, 2021

THE SUPREME LORD NARASIMHA MANIFESTS AND KILLS HIRANYAKASIPU

THE SUPREME LORD NARASIMHA MANIFESTS
AND KILLS HIRANYAKASIPU –
SRIMADBHAGAVATAM
ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ।
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् ॥
स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मत: ।
असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपा: ॥
तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुर: ।
पुनस्तमासज्जत खड्‌गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ॥
तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरि: ।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजव: ॥
विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् ।
द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया ।
असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरि: ॥
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् ।
अहन् समस्तान्नखशस्‍त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान् सहस्रश: ॥
सटावधूता जलदा: परापतन् ग्रहाश्च तद् द‍ृष्टिविमुष्टरोचिष: ।
अम्भोधय: श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशु: ॥
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैला: समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥
तत: सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् ।
अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे ।
प्रहर्षवेगोत्कलितानना मुहु: प्रसूनवर्षैर्ववृषु: सुरस्त्रिय: ॥
तदा विमानावलिभिर्नभस्तलं दिद‍ृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगु: स्त्रिय: ॥
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय: ।
ऋषय: पितर: सिद्धा विद्याधरमहोरगा: ॥
मनव: प्रजानां पतयो गन्धर्वाप्सरचारणा: ।
यक्षा: किम्पुरुषास्तात वेताला: सहकिन्नरा: ॥
ते विष्णुपार्षदा: सर्वे सुनन्दकुमुदादय: ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दुलं नातिदूरचरा: पृथक् ॥
जय जय श्रीराधे

Monday, May 24, 2021

SRI LAKSHMI NARASIMHA JAYANTI PRARTHANA

समस्तजगदाधार सर्वमङ्गळदायक ।
प्रह्लादप्रियदेवेश लक्ष्मीनृसिंह पाहि माम् ॥
जय जय श्रीराधे