Monday, February 10, 2020

SRI RADHA SUPRABHATAM

श्रीराधासु्प्रभातम्
श्रीगोविन्दप्रिये राधे गोपालप्राणकामिनि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
माधुर्यमयि श्रीराधे माधवमनमोहिनि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
कृपारूपिणि श्रीराधे गान्धर्वि कामदायिनि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
वृषभानुसुते राधे वृन्दावनमनोहरि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
भक्तपोषिणि श्रीराधे श्रीमद्भागवतेश्वरि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
श्रीकृष्णसेविके राधे दिव्यप्रेमप्रदायिनि। 
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
लोकपालिनि श्रीराधे योगमायास्वरूपिणि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
ममराधे सुधारूपे ममराधे सुरेश्वरि।
मधुराधे सुमाङ्गल्ये सुप्रभातं तव प्रिये॥
रसां सुमधुरां रम्यां सुधाधाराधरां शुभाम्।
कृष्णेनाराधितां देवीं राधिकां प्रणमाम्यहम्॥
https://www.youtube.com/watch?v=aUZ2km3qkWU
जय जय श्रीराधे