Tuesday, December 31, 2013

JAGANNATHASHTAKAM

JAGANNATHASHTAKAM
 
कदाचि त्कालिंदी तटविपिनसंगीतकपरो
मुदा गोपीनारी वदनकमलास्वादमधुपः
रमाशंभुब्रह्मा मरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे
दुकूलं नेत्रांते सहचर कटाक्षं विदधते
सदा श्रीमद्बृंदा वनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

महांभोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन्प्रासादांत -स्सहजबलभद्रेण बलिना
सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

कथापारावारा स्सजलजलदश्रेणिरुचिरो
रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः
सुरेंद्रै राराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः
दयासिंधु र्भानु स्सकलजगता सिंधुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोनंतशिरसि
रसानंदो राधा सरसवपुरालिंगनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

वै प्रार्थ्यं राज्यं कनकितां भोगविभवं
याचे२ हं रम्यां निखिलजनकाम्यां वरवधूं
सदा काले काले प्रमथपतिना चीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे

हर त्वं संसारं द्रुततर मसारं सुरपते
हर त्वं पापानां वितति मपरां यादवपते
अहो दीनानाथं निहित मचलं निश्चितपदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे

जय जय श्रीराधे !