Sunday, February 18, 2024
THIRUMAYAM SRI SATYAHANUMAN PRARTHANA (सत्यहनुमान्प्रार्थना )
वायुपुत्राय वीराय श्रीरामसेवकाय च ।
भक्ताभीष्टप्रदात्रे च सत्यहनुमते नम: ॥
जय जय श्रीराधे
Saturday, February 17, 2024
THIRUMAYAM SRI SATYAVAINATEYA PRARTHANA (सत्यवैनतेयप्रार्थना )
नमो मङ्गलरूपाय महाविष्णुवाहनाय।
भूतिदाय सुपर्णाय सत्यवैनतेयाय च॥
जय जय श्रीराधे
Friday, February 9, 2024
SRI PRABHUPAD MAHARAJ JI PRARTHANA
SRI PRABHUPAD MAHARAJ JI PRARTHANA
लोकाचार्यं कृपासिन्धुं श्रीकृष्णप्रेमसागरम् ।
भक्तियोगप्रदीपं तं प्रभुपादं नमाम्यहम् ॥
lokācāryam kṛpāsindhum ṣrīkṛṣṇapremasāgaram ।
bhaktiyogapradīpam tam prabhupādam namāmyaham ॥
जय जय श्रीराधे
Friday, January 5, 2024
THIRUMAYAM SRI SATYAKOLA PRARTHANA (श्रीसत्यकोलप्रार्थना )
श्रीसत्यकोलप्रार्थना
सर्वैश्वर्यप्रदातारं सर्वव्याधिविनाशकम्।
चतुर्वेदस्वरूपं तं सत्यकोलं नमाम्यहम्॥
जय जय श्रीराधे
THIRUMAYAM SRI SATYASIMHA PRARTHANA (श्रीसत्यसिंहप्रार्थना )
श्रीसत्यसिंहप्रार्थना
सकलपापहर्तारं सर्वमङ्गलविग्रहम्।
सच्चिदानन्दस्वरूपं सत्यसिंहं नमाम्यहम्॥
जय जय श्रीराधे
THIRUMAYAM SRI SATYAMURTI PRARTHANA (श्रीसत्यमूर्तिप्रार्थना )
श्रीसत्यमूर्तिप्रार्थना
सत्यपुष्करिणीवासं उज्जीवनमनोहरम्।
समस्तजगदाधारं सत्यमूर्तिं नमाम्यहम्॥
जय जय श्रीराधे
AYODHYA SRI RAMA SVAGATA MANGALA STOTRAM (AARTI)
स्वागतं जानकीकान्त स्वागतं स्वागतं शुभम्॥
AYODHYA SRI RAMA MANGALA STOTRAM (AARTI)
कौसल्याप्रियपुत्राय दशरथात्मजाय च।
सर्वाभीष्टप्रदात्रे च मङ्गलं शुभ मङ्गलम्॥
मङ्गलं धर्मरूपाय मङ्गलं सत्यसिन्धवे ।
मङ्गलं पापहन्त्रे च मङ्गलं शुभ मङ्गलम्॥
मङ्गलं रामचन्द्राय मङ्गलं राघवाय च।
मङ्गलं जानकीशाय मङ्गलं शुभ मङ्गलम्॥
मङ्गलं मङ्गलेशाय मम नाथाय मङ्गलम्।
आयोध्यावासिने भूयात् नित्यश्रीर्नित्य मङ्गलम्॥
जय जय श्रीराधे
