श्यामशास्त्री-प्रार्थना
सङ्गीतशास्त्रज्ञं ज्येष्ठं कविं भक्तिसमन्वितम्।
कामाक्षीप्रियमाचार्यं नमामि श्यामशास्त्रिणम् ॥
त्यागराज-प्रार्थना
सङ्गीतशास्त्रराजानं भक्तियोगप्रचारकम्।
रामप्रेमनिमग्नं तं त्यागराजं नमाम्यहम् ॥
मुत्तुस्वामी-दीक्षित-प्रार्थना
सङ्गीतसागरं दिव्यं नादयोगविशारदम्।
नमामि दीक्षितं श्रेष्ठं गुरुगुहप्रियं गुरुम्॥