Sunday, May 19, 2013

SRI SADASIVA BRAHMENDRA MAHA SWAMI

SrI SAdASiva Brahmendra was an  avadhUta, mystic , musician and  devotee par excellence . His  sacred samAdhi is in Nerur near Karur.

SrI SAdASiva Brahmendra ‘s  devotional  musical compositions include the following:
Ananda Purna Bodhoham Sachchidananda
Ananda Purna Bodhoham Satatam
Bhajare Gopalam
Bhajare Raghuviram
Bhajare Yadunatham
Brahmaivaham
Bruhi Mukundethi
Cetah Sreeramam
Cinta Nasti Kila
Gayati Vanamali
Khelati Brahmande
Khelati Mama Hrudaye
Kridati Vanamali
Krishna Pahi
Manasa Sancara Re
Nahi Re Nahi Re
Pibare Rama Rasam
Purna Bodhoham
Prativaram Varam
Sarvam Brahmha Mayam
Smaravaram
Sthiratha Nahi Nahire
Tatvat Jivitam
Tunga Taranga
   
The following Sloka was composed by the thirty third AcArya of Sringeri, Jagadguru Sri SacchidAnanda SivAbhinava Narasimha BhArati MahAswami after having darSan at SrI SadASiva Brahmendra’s AdhishthAnam in Nerur.
॥श्रीसदाशिवेन्द्रस्तवः॥

परतत्त्वलीनमनसे
प्रणमद्भवबन्धमोचनायाशु ।
प्रकटितपरतत्त्वाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १ ॥
परमशिवेन्द्रकराम्बुज-
सम्भूताय प्रणम्रवरदाय ।
पदधूतपङ्कजाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २ ॥
विजननदीकुञ्जगृहे
मञ्जुलपुलिनैकमञ्जुतरतल्पे ।
शयनं कुर्वाणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३ ॥
कामाहिद्विजपतये
शमदममुखदिव्यरत्नवारिधये ।
शमनाय मोहविततेः
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ४ ॥
नमदात्मबोधदाया-
रमते परमात्मतत्त्वसौधाग्रे ।
समबुद्धयेऽश्महेम्नोः
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ५ ॥
गिलिताविद्याहाला-
हलहतपुर्यष्टकाय बोधेन ।
मोहान्धकाररवये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ६ ॥
शममुखषट्कमुमुक्षा-
विवेकवैराग्यदाननिरताय ।
तरसा नतजनततये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ७ ॥
सिद्धान्तकल्पवल्ली-
मुखकृतीकर्त्रे कपालिभक्तिकृते ।
करतलमुक्तिफलाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ८ ॥
तृणपङ्कलिप्तवपुषे
तृणतोऽप्यधरं जगद्विलोकयुते ।
वनमध्यविहरणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ९ ॥
निगृहीतहृदयहरये
प्रगृहीतात्मस्वरूपरत्नाय ।
प्रणताब्धिपूर्णशशिने
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १० ॥
अज्ञानतिमिररवये
प्रज्ञानाम्भोधिपूर्णचन्द्राय ।
प्रणताघविपिनशुचये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ११ ॥
मतिमलमोचनदक्ष-
प्रत्यग्ब्रह्मैक्यदाननिरताय ।
स्मृतिमात्रतुष्टमनसे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १२ ॥
निजगुरुपरमशिवेन्द्र-
श्लाघितविज्ञानकाष्ठाय ।
निजतत्त्वनिश्चलहृदे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १३ ॥
प्रविलाप्य जगदशेषं
परिशिष्टाखण्डवस्तुनिरताय ।
आस्यप्राप्तान्नभुजे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १४ ॥
उपधानीकृतबाहुः
परिरब्धविरक्तिरामो यः ।
वसनीकृतखायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १५ ॥
सकलागमान्तसार-
प्रकटनदक्षाय नम्रपक्षाय ।
सच्चित्सुखरूपाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १६ ॥
द्राक्षाशिक्षणचतुर-
व्याहाराय प्रभूतकरुणालय ।
वीक्षापावितजगते
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १७ ॥
योऽनुत्पन्नविकारो
बाहौ म्लेच्छेन छिन्नपतितेऽपि ।
अविदितममतायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १८ ॥
न्यपतन्सुमानि मूर्धनि
येनोच्चरितेषु नामसूग्रस्य ।
तस्मै सिद्धवराय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १९ ॥
यः पापिनोऽपि लोकां-
स्तरसा पुण्यनिष्ठाग्र्यान् ।
करुणाम्बुराशयेऽस्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २० ॥
सिद्धेश्वराय बुद्धेः
शुद्धिप्रदपादपद्मनमनाय ।
बद्धौघमोचकाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २१ ॥
हृद्याय लोकविततेः
पद्यावलिदाय जन्ममूकेभ्यः ।
प्रणतेभ्यः पदयुगले
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २२ ॥
जिह्वोपस्थरतान-
प्याह्वोच्चारेण जातु नैजस्य ।
कुर्वाणाय विरक्तान्
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २३ ॥
कमनीयकामानाकर्त्रे
शमनीयभयापहारचतुराय ।
तपनीयसदृशवपुषे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २४ ॥
तारकविद्यादात्रे
तारापतिगर्ववारकास्याय ।
तारजपप्रवणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २५ ॥
मूकोऽपि यत्कृपा
चेल्लोकोत्तरकीर्तिराशु जायेत ।
अद्भुतचरितायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २६ ॥
दुर्जनदूरायतरां
सज्जनसुलभाय पात्रहस्ताय ।
तरुतलनिकेतनाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २७ ॥
भवसिन्धुतारयित्रे
भवभक्ताय प्रणम्रवश्याय ।
भवबन्धविरहिताय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २८ ॥
त्रिविधस्यापि त्यागं
वपुषः कर्तुं स्थलत्रये य इव ।
अकरोत्समाधिमस्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २९ ॥
कामिनपि जितहृदयं
क्रूरं शान्तं जडं सुधियम् ।
कुरुते यत्करुणास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३० ॥
वेदस्मृतिस्थविद्व-
ल्लक्षणलक्ष्येषु सन्दिहानानाम् ।
निश्चयकृते विहर्त्रे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३१ ॥
बालारुणनिभवपुषे
लीलानिर्धूतकामगर्वाय ।
लोलाय चिति परस्यां
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३२ ॥
शरणीकृताय सुगुणै-
श्चरणीकृतरक्तपङ्कजाय ।
धरणीसदृक्क्षमाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३३ ॥
प्रणताय यतिवरेण्यैर्-
गणनाथेनाप्यहार्यविघ्नहृते ।
गुणदासीकृतजगते
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३४ ॥
सहमानाय सहस्राण्य-
पराधान् प्रणम्रजनरचितान् ।
सहस्यैव मोक्षदात्रे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३५ ॥
धृतदेहाय नतावलि-
तूर्णप्रज्ञाप्रदानवाञ्छतः ।
श्रीदक्षिणवक्त्राय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३६ ॥
तापत्रयार्तहृदय-
स्तापत्रयहारदक्षनमनमहम् ।
गुरुवरबोधितमहिमा
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३७ ॥
सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवित्
सरित्तटविहारकृत्सकललोकहृत्तापहृत् ।
सदाशिवपदाम्बुजप्रणतलोकलभ्ये प्रभो
सदाशिवयतेट् सदा मयि कृपामपारां कुरु ॥ ३८ ॥
पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः
पुनः पदसरोरुहप्रणतमेनमेनोनिधिम् ।
कृपापरवशः पदं पतनवर्जितं प्रापयत्
सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ ३९ ॥
हृषीकहृतचेतसि प्रहृतदेहके रोगकै-
रनेकवृजिनालये शमदमादिगन्धोिज्झते ।
तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट्
सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ ४० ॥
न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं
विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे ।
बलं बलवतां वर प्रकुरु हेतुशून्यां विभो
सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ ४१ ॥
शब्दार्थविज्ञानयुता हि लोके
वसन्ति लोका बहवः प्रकामम् ।
निष्ठायुता न श्रुतदृष्टपूर्वा
विना भवन्तं यतिराज नूनम् ॥ ४२ ॥
स्तोकार्चनप्रीतहृदम्बुजाय
पाकाब्जचूडापररूपधर्त्रे ।
शोकापहर्त्रे तरसा नतानां
पाकाय पुण्यस्य नमो यतीशे ॥ ४३ ॥
नाहं हृषीकाणि विजेतुमीशो
नाहं सपर्याभजनादि कर्तुम् ।
निसर्गया त्वं दययैव पाहि
सदाशिवेमं करुणापयोधे ॥ ४४ ॥
कृतयानया नतावलि-
कोटिगतेनातिमन्दबोधेन ।
मुदमेहि नित्यतृप्त-
प्रवर स्तुत्या सदाशिवाश्वाशु ॥ ४५ ॥
॥ इति शृङ्गगिरिजगद्गुरु श्रीश्री सच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितः श्रीसदाशिवेन्द्रस्तवः ॥

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे !
हरे राम हरे राम राम राम हरे हरे !!
जय जय  श्रीराधे !